BṚHADĀRAṆYAKA UPANISHAD · 6.2.12
पुरुषो वा अग्निर् गौतम ।
तस्य व्यात्तम् एव समित् ।
प्राणो धूमः ।
वाग् अर्चिः ।
चक्षुर् अङ्गाराः ।
श्रोत्रं विष्फुलिङ्गाः ।
तस्मिन्न् एतस्मिन्न् अग्नौ देवा अन्नं जुह्वति ।
तस्या आहुत्यै रेतः संभवति ॥
puruṣo vā agnir gautama ।
tasya vyāttam eva samit ।
prāṇo dhūmaḥ ।
vāg arciḥ ।
cakṣur aṅgārāḥ ।
śrotraṃ viṣphuliṅgāḥ ।
tasminn etasminn agnau devā annaṃ juhvati ।
tasyā āhutyai retaḥ saṃbhavati ॥
'The altar, O Gautama, is man; the fuel the opened mouth, the smoke the breath, the light the tongue, the coals the eye, the sparks the ear. On that altar the Devas offer food. From that oblation rises seed.
F. Max Müller · The Upanishads, Sacred Books of the East 15 (1884)